श्री गणपती अथर्वशीर्ष

Thu, 02 Jul, 2026 10:49
धर्मार्थकाममोक्षं च विन्दति ।

इदमथर्वशीर्षमशिष्याय न देयम् ।

यो यदि मोहाद् दास्यति स पापीयान् भवति ।

सहस्त्रावर्तनात् ।

यं यं काममधीते तं तमनेन साधयेत् ॥११॥

अनेन गणपतिमभिषिञ्चति ।

स वाग्मी भवति ।

चतुर्थ्यामनश्वन्‌जपति ।

स विद्यावान भवति ।

इत्यथर्वणवाक्यम् ।

ब्रह्माद्यचरणं विद्यात् ।

न बिभेति कदाचनेति ॥१२॥

यो दूर्वाङ्कुरैर्यजति ।

स वैश्रवणोपमो भवति ।

यो लाजैर्यजति ।

स यशोवान् भवति ।

स मेधावान् भवति ।

यो मोदकसहस्त्रेण यजति ।

स वांछितफलमवाप्नोति ।

यः साज्यसमिद्‌भिर्यजति ।

स सर्वं लभते स सर्वं लभते ॥१३॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।

सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जपत्वा ।

सिद्धमन्त्रो भवति ।

महाविघ्नात् प्रमुच्यते ।

महादोषात प्रमुच्यते ।

महापापात् प्रमुच्यते ।

स सर्वविद् भवति स सर्वविद् भवति ।

य एवं वेद ।

इत्युपनिषत् ॥१४॥



Leave a Reply